श्री सत्यनारायण व्रत कथा - मंत्र पुष्पांजलि
Shri Satyanarayan Vrat - Mantra Pushpanjali

श्री सत्यनारायण व्रत कथा एवं पूजन विधि
श्री सत्यनारायण व्रत कथा - मंत्र पुष्पांजलि
मन्त्र पुष्पाञ्जलिः -
ॐ यज्ञेनयज्ञमयजन्त देवास्तानिधर्माणि प्प्रथमान्त्या सन्। तेह नाकम्महि मानः सचन्त यत्र पूर्वेसाद्ध्याः सन्तिदेवाः । ॐराजाधिराय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे। समे कामान् कामकामाय महां कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाया महाराजाय नमः । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठचं राज्यं महाराज्य माहि पित्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुषऽआन्तादा परार्धात्पृथिव्यै समुद्रपर्यन्तायाऽएकराडिति । तदप्येषश्लोकोभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आवीक्षितस्य कामप्रेर्व्विश्वेदेवा: सभासद इति ॥
ॐ व्विश्वतश्चक्षुरुत व्विश्वतोमुखोव्विश्वतोबाहुरुत व्विश्वतस्पात् ॥
सम्बाहुब्भ्यान्धमति सम्पतत्रैर्घावा भूमीजन यन्देवऽ एकः ॥
ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॥
ॐ गणाम्बिकायै च विद्यहे कर्मसिद्धयै च धीमहि तन्नो गौरी प्रचोदयात् ॥
ॐ महालक्ष्म्यै च विद्महे विष्णु पल्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥
ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥
पुष्पाञ्जलिचराचरं व्याप्तमिदं त्वयैव तवैव भासास्ति जगत्सभासम् ।
त्वय्येव पुष्पाञ्जलिरर्पितेयं मोदाय लोकस्य तवापि चास्तु ॥
नानासुगन्धि पुष्पाणि ऋतु कालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्त गृहाण परमेश्वर ॥
सुमन सुगन्धित सुमन ले सुमन सुभक्ति सुधार।
पुष्पाञ्जलि अर्पण करूँ देव करो स्वीकार ॥
ॐ भूर्भुवः स्वः सर्वे आवाहित देवताभ्यो नमः मन्त्र पुष्पाञ्जलिं समर्पयामि ॥
प्रदक्षिणाम् -
ॐ ये तीर्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः। तेषार्थ सहस्रयोजने वध वा नित मसि ॥
त्वद्देहसंस्थानि जगन्तिदेव त्वद्रोमकूपेषु च देवसङ्घाः। प्रदक्षिणा दक्षथियोऽत एव कुर्वन्ति पापौघविनाशनाय ॥
स्तुति प्रार्थना -
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्क कौस्तुभोद्धासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुंवन्दे सर्वलोकैकनाथम्॥
गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण।
गोविन्द गोविन्द रथाङ्गपाणे गोविन्द गोविन्द नमो नमस्ते ॥
गो कोटिदानं ग्रहणेषु काशी प्रयागङ्गायुत कल्पवासः ।
यज्ञायुतं मेरुसुवर्णदानं गोविन्दनाम्ना न समं न तुल्यम् ॥
अप्रमेय हरे विष्णो कृष्णदामोदराच्युत ।
गोविन्दानन्द सर्वेश वासुदेव नमोऽस्तुते ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम्।
शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु ॥
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देवदेव ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर।
यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्व क्षम्यतां देव प्रसीद परमेश्वर ॥