× About Us Home Founder Patrons Convener Contact Us Privacy Policy
SanatanShakti.in

शनि वज्रपिञ्जर कवचम्

Shani Vajrapinjar Kavacham

शनि बीज मंत्र एवं तंत्रोक्त प्रयोग * शनि रक्षा स्तोत * शनि चालीसा * शनि गायत्री मंत्र * शनि अष्टोत्तरशतनामावली * शनि पौराणिक महामंत्र * शनि मूल मंत्र * शनि वैदिक मन्त्र * शनि जैन मंत्र * शनि पत्नी मंत्र * शनि माला मंत्र * शनि वज्रपिञ्जर कवचम् * शनि जयंती
 
शनि बीज मंत्र एवं तंत्रोक्त प्रयोग
 
आलेख © कॉपीराइट - साधक प्रभात (Sadhak Prabhat)

शनि वज्रपिञ्जर कवचम्

नीलाम्बरो नीलवपुः कीरीटी गृधस्थितस्त्रासकरो धनुष्मान्।
चतुर्भुजः सूर्यसुतः प्रसन्न: सदा ममता स्याद् वरदः प्रशान्तः।।१ ।।

ब्रह्मा उवाच

श्रृणुध्वमृषयः सर्वे शनिपीड़ाहरं महत्।
कवचं शनिराजस्य सौरेरिदमुत्तमम्।।२।।

कवचं देवतावासं वज्रपञ्जरसंज्ञकम्।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्।।३ ।।

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः।
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः।। ४ ।।

नासां वैवस्वतः पातु मुखं मे भास्करः सदा।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः।।५।।

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा।।६ ।।

नाभिं गृहपतिः पातु मन्दः पातु कटिं तथा।
ऊरू ममाऽन्तकः पातु यमो जानायुगं तथा।।७ ।।

पदौ मन्दगतिः पातु सर्वांङ्ग पातु पिप्पलः।
अंङ्गोपांङ्गानि सर्वाणि रक्षेन् मे सूर्नयन्दनः।।८ ।।

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः।
न तस्य जायते पीड़ा प्रीतो भवति सूर्यजः।। ९ ।।

व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा।
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः।।१०।।

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे।
कवचं पठते नित्यं न पीड़ा जायते क्वचित्।।११।।

इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।
द्वादशा-ऽष्टम-जन्मस्थ-दोषान्नशायते सदा। जन्मलग्नस्थितान दोषान् सर्वान्नाशयते प्रभुः।।१२।।

।। इति श्रीब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपिञ्जर-कवचं सम्पूर्णम् ।।

www.sanatanshakti.in/

***********

शनि वज्रपिञ्जर कवचम् Shani Vajrapinjar Kavacham