× About Us Home Founder Patrons Convener Contact Us Privacy Policy
SanatanShakti.in

श्री हनुमान स्तुति

Sri Hanuman Stuti

 
हनुमत् कवच Hanumat Kavach

श्री हनुमान स्तुति

नमो हुनुमते तुभ्यं नमो मारुत सूनवे,
नमः श्रीराम भक्ताय श्यामसांगाय ते नमः।
नमो वानर-वीराय, सुग्रीव-सख्यकारिणे,
सीता शोक विनाशाय-राम मुद्राधराय च ॥


रावणान्त कुलच्छेद कारिणे ते नमो नमः,
मेघनाद मखध्वंस कारिणे ते नमो नमः।
वायुपुत्राय वीराय आकाशोदर गामिने,
नरपाल-शिरच्छेद लंका प्रासाद भञ्जिने ॥

ज्वलत्कनक वर्णाय दीर्घलांगूल धारिणे,
सौमित्रजयदात्रे च रामदूताय ते नमः।
अक्षय्यवधकर्त्रै च ब्रह्मपाश निवारिणे,
लक्ष्मणांधि महाशक्ति घातक्षत विनाशिने ॥

रक्षोध्नाय रिपुध्नाय भूतध्नाय च ते नमः,
ऋक्ष वानर वीरैकप्राणदाय नमो नमः ॥

पर सैन्य बलघ्नाय शत्राऽस्त्रघ्नाय ते नमः,
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः।
महाभयरिपुध्याय भक्त प्राणैक कारिणे,
पर प्रेरितमन्त्राणां, यन्त्राणां स्तम्भकारिणे ॥

पयः पाषाणतरण करनाय नमो नमः,
बालार्क मण्डल त्रासकारिणे भवतारिणे।
रिपुमाया विनाशय रामाज्ञा लोक रक्षिणे,
प्रतिग्राम स्थितायाऽथ, रक्षोभूतवधीर्थने॥

करान्तशैलशस्त्राय, दुमशस्त्राय ते नमः,
बालैक ब्रह्मचर्याय रुद्रमूर्तिधराय च।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने,
कृतक्षत व्यथाध्नाय सर्व क्लेशहराय च।
स्वामिआज्ञाप्रार्थसंग्रामसंख्येसंजयकारिणे,
भक्तानां दिव्यवादेषुसंग्रामे जयदायिने ।।

किं कृत्वाबुबुकोच्चारघोरशब्दकराय च,
रावोग्रव्याधि संस्तम्भकारिणे वनधारिणे।
सदा वन फलाहार-निरताय विचक्षतः,
महार्णव शिलाबन्धे सेतु बन्धाय ते नमः ॥

नमस्ते नमस्ते महावायु सूनो। नमस्ते नमस्ते भविष्यद् विधातः ।
नमस्ते नमस्ते सदाभीष्टदातर्। नमस्ते नमस्तेऽनिशं रामभक्त ॥

***********

www.sanatanshakti.in/

श्री हनुमान स्तुति Sri Hanuman Stuti नमो हुनुमते तुभ्यं नमो मारुत सूनवे, नमः श्रीराम भक्ताय श्यामसांगाय ते नमः।